कुंडलहिरण्यम् कुण्डलाय हिरण्यम् । घटमृत्तिका चटाय मृत्तिका । सुखार्थ: सुखाय अयम् । प्रीत्यर्थम् प्रीत्यै इदम् । संतोषार्थम् सन्तोषाय इति । गुरुदक्षिणा गुरवे दक्षिणा । क्रीडोद्यानम् क्रीडायै उद्यानम् । काकबलि: काकेभ्य: बलि: । श्रीकृष्णार्पणम् श्रीकृष्णाय अर्पणम् । वधस्तंभ: वधाय स्तंभ: । रक्षाकरंडकम् रक्षायै करण्डकम् । शयनमंच: शयनाय मञ्च: । मृगयार्थम् मृगयायै इति । अन्वेषणार्थम् अन्वेषणाय इति । गौरवार्थम् गौरवाय इति । संशोधनार्थम् संशोधनाय इति । धनार्थम् धनाय इति । देशार्थम् देशाय सति । संभावनाधनम् सम्भावनायै धनम् । शिवार्पणम् शिवाय अर्पणम् । गृध्रबलि: गृध्रेभ्य: बलि: । स्त्रोत - संस्कृतदीपिका